|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.46. अध्यायः 046
Mahabharata - Bhishma Parva - Chapter Topics
संकुलयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-46-0x(4107)(40404)
राजञ्शतसहस्राणि तत्रतत्र पदातिनाम् ।
निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत ॥ 6-46-1(40405)
न पुत्रः पितरं जज्ञे पिता वा पुत्रमौरसम् ।
न भ्राता भ्रातरं तत्र स्वस्त्रीयं न च मातुलः ॥ 6-46-2(40406)
न मातुलं च स्वस्रीयो न सखायं सखा तथा।
आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह ॥ 6-46-3(40407)
रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः ।
अभज्यन्त युगैरेव युगानि भरतर्षभ ॥ 6-46-4(40408)
रथेषाश्च रतेषाभिः कूरा रथकूबरैः।
संगतैः सहिताः केचित्परस्परजिघांसवः ॥ 6-46-5(40409)
न शेकुश्चलितुं केचित्सन्निपत्य रथा रथैः ।
प्रभिन्नास्तु महाकायाः सन्निपत्य गजा गजैः ॥ 6-46-6(40410)
बहुधा दारयन्क्रुद्धा विषाणैरितरेतरम्।
सतोरणपताकैश्च वारणा वरवारणैः ॥ 6-46-7(40411)
अभिसृत्य महाराज वेगवद्भिर्महागजैः ।
दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः ॥ 6-46-8(40412)
अभिनीताश्च शिक्षाभिस्तोत्राङ्कुशसमाहताः।
अप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः ॥ 6-46-9(40413)
प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः ।
क्रौञ्चवन्निनदं कृत्वा दुद्रुवुः सर्वतो दिशम् ॥ 6-46-10(40414)
सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः ।
ऋषितोमरनाराचैर्निर्विद्धा वरवारणाः ॥ 6-46-11(40415)
प्रणेदुर्भिन्नमर्माणो निपेतुश्च गतासवः।
प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान् ॥ 6-46-12(40416)
गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः ।
ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वथैः ॥ 6-46-13(40417)
गदाभिर्मुसलैश्चैव भिन्दिपालैः सतोमरैः ।
आयसैः परिघैश्चैव निस्तिरंशैर्विमलै शितैः । 6-46-14(40418)
प्रगृहीतैः सुसंरब्धा द्रवमाणास्ततस्ततः।
व्यदृश्यन्त महाराज परस्परजिघांसवः ॥ 6-46-15(40419)
राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः।
प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् ॥ 6-46-16(40420)
अवक्षिप्तावधूतानामसीनां वीरबाहुभिः ।
संजज्ञे तुमुलः शब्दः पततां परमर्मसु ॥ 6-46-17(40421)
गदामुसलरुग्णानां भिन्नानां च वरासिभिः ।
दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः ॥ 6-46-18(40422)
तत्र तत्र नरौघाणां क्रोशतामितरेतरम् ।
शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत ॥ 6-46-19(40423)
हयैरपि हयारोहाश्चामरापीडधारिभिः ।
हंसैरिव महावेगैरन्योन्यमभिविद्रुताः ॥ 6-46-20(40424)
तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः ।
आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः ॥ 6-46-21(40425)
अश्वैरग्न्यजवैः केचिदाप्लुत्य महतो रथात् ।
शिरांस्याददिरे वीरा रथिनामश्वसादिनः ॥ 6-46-22(40426)
बहूनपि हयारोहान्भल्लैः सन्नतपर्वभिः ।
रथी जघान संप्राप्य बाणगोचरमागतान् ॥ 6-46-23(40427)
नवमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः ।
पादैरेव विमृद्गन्ति मत्ताः कनकभूषणाः ॥ 6-46-24(40428)
पाठ्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः।
प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः ॥ 6-46-25(40429)
साश्वारोहान्हयान्कांश्चिदुन्मथ्य वरवारणाः ।
सहसा चिक्षिपुस्तत्र संकुले भैरवे सति ॥ 6-46-26(40430)
साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्गजाः ।
रथौघानभिमृद्गन्तः सध्वजानभिचक्रमुः ॥ 6-46-27(40431)
पुंस्त्वादतिमदत्वाच्च केचित्तत्र महागजाः ।
साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा ॥ 6-46-28(40432)
अश्वारोहैश्च समरे हस्तिसादिभिरेव च ।
प्रतिमानेषु गात्रेषु पार्श्वष्वभि च वारणान् ।
आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः ॥ 6-46-29(40433)
नराश्वकायान्निर्भिद्य लौहानि कवचानि च।
निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः ॥ 6-46-30(40434)
महोल्ककाप्रतिमा घोरास्तत्र तत्र विशांपते।
द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मच्छदैरपि ॥ 6-46-31(40435)
विकोशैर्विमलैः खङ्गैरभिजध्नुः परान्रणे ।
अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् ॥ 6-46-32(40436)
विदर्शयन्तः संपेतुः खङ्गचर्मपरश्वथैः।
केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः ॥ 6-46-33(40437)
विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः।
शङ्कुभिर्दारिताः केचित्संभिन्नाश्च परश्वथैः ॥ 6-46-34(40438)
हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरंगमैः ।
रथनेमिनिकृत्ताश्च निकृत्ताश्च परश्वथैः ॥ 6-46-35(40439)
व्याक्रोशन्त नरा राजंस्तत्रतत्र स्म बान्धवान्।
पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बन्धुभिः ॥ 6-46-36(40440)
मातुलान्भागिनेयांश्च परानपि च संयुगे ।
विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत ॥ 6-46-37(40441)
बाहुभिश्चापरे छिन्नैः पार्श्वेषु च विदारिताः ।
क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः ॥ 6-46-38(40442)
तृषापरिगताः केचिदल्पसत्वा विशांपते।
भूमौ निपतिताः सङ्ख्ये मृगयांचक्रिरे जलम् ॥ 6-46-39(40443)
रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत ।
व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च संगतान् ॥ 6-46-40(40444)
अपरे क्षत्रिकयाः शूराः कृतवैराः परस्परम् ।
नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष ।
तर्जयन्ति च संहृष्टास्तत्रतत्र परस्परम् ॥ 6-46-41(40445)
आदश्य दशनैश्चापि क्रोधात्स्वरदनच्छदम् ।
भ्रुकुटीकुटिलैर्वक्रैः प्रेक्षन्ति च परस्परम् ॥ 6-46-42(40446)
अपरे क्लिश्यमानास्तु शरार्ता व्रणपीडिताः।
निष्कूजाः समपद्यन्त दृढसत्वा महाबलाः ॥ 6-46-43(40447)
अन्ये च विरथाः शूरा रथमन्यस्य संयुगे।
प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः ।
अशोभन्त महाराज सपुष्पा इव किंशुकाः ॥ 6-46-44(40448)
संबभूवुरनीकेषु बहवो भैरवस्वनाः।
वर्तमाने महाभीमे तस्मिन्वीरवरक्षये॥ 6-46-45(40449)
निजघान पिता पुत्रं पुत्रश्च पितरं रणे।
स्वस्त्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः ॥ 6-46-46(40450)
सखा सखायं च तथा संबन्धी बान्धवं तथा।
एवं युयुधिरे तत्र कुरवः पाण्डवैः सह ॥ 6-46-47(40451)
वर्तमाने तथा तस्मिन्निर्मर्यादे भयानके ।
भीष्ममासाद्य पार्थानां वाहिनी समकम्पत ॥ 6-46-48(40452)
केतुना पञ्चतारेण तालेन भारतर्षभ ।
राजतेन महाबाहुरुच्छ्रितेन महारथे ।
बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा ॥ ॥ 6-46-49(40453)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे षट्चत्वारिंशोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-46-1 प्रयुद्धानि युद्धं कृतवन्ति ॥ 6-46-2 जज्ञे ज्ञातवान् ॥ 6-46-3 आविष्टा इव भूतादिना गृहीता इव ॥ 6-46-4 युगानि अश्वस्कन्धार्पितानि दारूणि ॥ 6-46-5 रथेषा रथदण्डः । कूबरो युगकीलः। संगतैः संमुखागतैः ॥ 6-46-6 प्रभिन्नाश्र्योतन्मदाः ॥ 6-46-7 विषाणैर्दन्तैः तोरणानि चतुःस्तम्भमण्डपाकारस्य गजपल्याणस्य अम्बारीति भाषया प्रसिद्धस्य। द्वाराणि पताकाश्च तत्रैव स्तम्भशेखरस्थाः ॥ 6-46-9 संमुखाभिमुखाः अन्योन्यसंमुखा इत्यर्थः ॥ 6-46-17 अवक्षिप्तावधूतानां अधोमुखं पातितानां परेषां मर्मसु पततामसीनामिति संबन्धः ॥ 6-46-19 प्रेतानां नारकाणाम् ॥ 6-46-26 सहसा बलेन ॥ 6-46-28 पुंस्त्वाद्वीर्यवत्त्वात्। अतिमदत्वादुद्भिन्नमदत्वात् ॥ 6-46-29 प्रतिमानेषु ललाटेषु ॥ 6-46-30 शक्त्यः शक्तयः 6-46-43 निष्कूजा निःशब्दाः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|